आदिशब्दः प्रयेकं सम्बध्यते। त्रिभ्यो गणेभ्यः त्रयः प्रत्ययाः यथासङ्ख्यं भवन्ति। नन्द्याऽदिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्यो ऽच्। नन्दिग्रहपचादयश्च न धातुपाठतः सन्निविष्टा गृह्यन्ते, किं तर्हि, नन्दन रमण इत्येवम् आदिषु प्रातिपदिकगणेषु अपोद्धृत्य प्रकृतयो निर्दिश्यन्ते। नन्दिवासिपदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम्। नन्दनः। वासनः। मदनः। दूषणः। साधनः। वर्धनः। शोभनः। रोचनः। सहितपिदमेः संज्ञायाम्। सहनः। तपनः। दमनः। जल्पनः। रमणः। दर्पणः। सङ्क्रन्दनः। सङ्कर्षणः। जनार्दनः। यवनः। मधुसूदनः। विभीषणः। लवणः। निपातनाण् णत्वम्। चित्तविनाशनः। कुलदमनः। शत्रुदमनः। इति नन्द्यादिः। ग्रह। उत्सह। उद्दस। उद्भास। स्था। मन्त्र। सम्मर्द। ग्राही। उत्साही। उद्दासो। उद्भासी। स्थायी। मन्त्री। सम्मर्दी। रक्षश्रुवसवपशां नौ। निरक्षी। निश्रावी। निवासी। निवापी। निशायी। याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्। अयाची। अव्याहारी। असंव्याहारी। अव्राजी। अवादी। अवासी। अचामचित्तकर्तृकाणाम्। प्रतिषिद्धानाम् इत्येव। अकारी। अहारी। अविनायी। अविशायी। विशयी। विशयी देशे। विशयो, विषयी देशः। अभिभावी भूते। अभिभावी। अपराधी। उपरोधी। परिभवी। परिभावी। इति ग्रह्यादिः। पच। वप। वद। चल। शल। तप। पत। नदट्। भषट्। वस। गरट्। प्लवट्। चरट्। तरट्। चोरट्। ग्राहट्। जर। मर। क्षर। क्षम। सूदट्। देवट्। मोदट्। सेव। मेष। कोप। मेधा। नर्त। व्रण। दर्श। दंश। दम्भ। जारभरा। श्वपच। पचादिराकृतिगणः। अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः। अण्बाधनार्थम् एव स्यात् सिध्यन्ति श्वपचादयः।
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री। पचादिराकृतिगणः॥
"प्रत्यासत्त्या पचिनैवादिशब्दस्य सम्बन्धो मा विज्ञायीत्यत आह-- "प्रत्येकम्" इत्यादि।
"नन्दिवाशि" इत्यादि। "टुनदि सममृद्धौ" (धा।पा।६७), "वाशृ शब्दे" (धा।पा।११६३), "मदी हर्षे" (धा।पा।१२०८), "दुष वैकृत्ये" (धा।पा।११८५), "राध साध संसिद्धौ" (धा।पा।१२६२,१२६३), "शुभ शुम्भ शोभायाम्" (धा।पा।१३२१,१३२२), "रुच दीप्तौ" (धा।पा।७४५)-- एभ्यो धातुभ्यो ण्यन्तेभ्यः संज्ञायां ल्युर्भवति। नन्दयतीति। नन्दनमित्येवमाद्युदाहरणम्। "दूषणम्" इति। "दोषो णौ"
६।४।९० इत्यूत्त्वम्। अण्यन्तानां त्वेषामसंज्ञायां संज्ञायां च तृजादय एव भवन्ति। ग्रह्रादीनां नन्द्यादीनाञ्च गणे पाठस्येदमेव प्रयोजनम्-- संज्ञाविशिष्टविषये तेषां साधुत्वं यथा स्यात्। अन्यथा हि प्रकृतीरेव गणे पठित्वेह चादिशब्देन ता उपलक्ष्य प्रत्ययं विदध्यात्। "सहितपि" इत्यादि। "षह मर्षणे" (धा।पा।१८०९), "तप सन्तापे" (धा।पा।९८५), "दमु उपशमे" (धा।पा।१२०३) - एभ्यः संज्ञायामण्यन्तेभ्यो ल्युः। "जल्पनः" इत्यादि। "जप जल्प व्यक्तायां वाचि" (धा।पा।३९७,३९८), "रमु क्रीडायाम्" (धा।पा।८५३), "दृप {हर्षमोहनयोः-धा।पा।} हर्षणमोचनयोः" (धा।पा।११९६), "कदि क्रदि आह्वाने रोदने च" (धा।पा।७०,७१), "कृष विलेखने" (धा।पा।९९०) ह्मषु अलोके" (धा।पा।७०९),"अर्द हिंसायाम्" (धा।पा।१८२८), जनमर्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते ल्युः। "यु {मिश्रणेऽमिश्रणे च-धा।पा।} मिश्रणे" (धा।पा। १०३३), "षूद क्षरणे" (धा।पा।१७१७), मधुं सूदयतीति मधुसूदनः। अत्रापि कर्मण्यणि प्राप्ते ल्युः। "ञिभी भये" (धा।पा। १०८४)। विपूर्वात् "हेतुमति च"
३।१।२६ इति णिच्; "भियो हेतुभये षुक्"
७।३।४०।"लवणः" इति। "लूञ् छेदने" (धा।पा।१४८३)। "निपातनाण्णत्वम्" इति। कृतणत्वस्य गणे पाठो निपातनम्। "णश अदर्शने" (धा।पा।११९४) विपूर्वः, "दमु उपशमे" (धा।पा।१२०३)- द्वावप्येतौ हेतुमण्णिजन्तौ। वित्तं विनाशयतीति वित्तविनाशनः। कुलं दमयतीति कुलदमनः। "मितां ह्यस्वः"
६।४।९२ इति ह्यस्वः, कर्मण्यणि प्राप्ते ल्युः।
"ग्रह" इत्यादि। "ग्रह उपादाने" (धा।पा।१५३३), "षह मर्षणे" (धा।पा।१८०९) उत्पूर्वः। "तसु {उपक्षये--धा।पा।}क्षेपणे" (धा।पा।१२१२), "दसु च" (धा।पा।१२१३),दसिवत् पूर्वः। "भस भत्र्सनदीप्त्योः" (धा।पा।११००) उत्पूर्वः। "ष्ठा गतिनिवृत्तौ" (धा।पा।९२८), "आतो युक्"
७।३।३३। स्थायी। "मत्रि {गुप्तपरिभाषणे" धा।पा।} गुप्तभाषणे" (धा।पा।१६७९), चुरादिणिजन्तः। "मृद क्षोदे" (धा।पा।१५१५) संपूर्वः। संमृद्()नातीति संपूर्वादेव यथा स्यात्। "रक्षश्रुवसवपशां नौ" इति। "रक्ष पालने" (धा।पा।६५८), "श्रु श्रवणे" (धा।पा।९४२), "डुवप बीजतन्तुसन्ताने" (धा।पा।१००३), "शो तनूकरणे" (धा।पा।११४५)-- एषां निशब्द उपपदे णिनिः। "निशायी" इति। पूर्ववद्युक्। "याचि" इत्यादि। "टुयाचृ याच्ञायाम्" (धा।पा।८६३), "ह्मञ् हरणे" (धा।पा।८९९) , व्याङ्पूर्वः, पुनः स एव संपूर्वः, "वज व्रज गतौ" (धा।पा।२५२,२५३), वद व्यक्तायां वाचि" (धा।पा।१००९), "वस निवासे" (धा।पा।१००५) --एषां प्रतिषिद्धानां णिनिर्भवति। "प्रतिषिद्धानाम्" इति। "प्रतिषिद्धार्थानामित्य्रथः। प्रतिषिद्धार्थतांच नञ्पूर्वाणामेव भवतीति नञ्पूर्वेभ्यो णिनिर्विज्ञायते।
कथं पुनः प्रतिषिद्धानां प्रयोग#ः? उपचारसत्तयामप्रतिषेधाददोषः। न हि मुख्यैव पदार्थानां सत्ता; किन्तूपचरिताऽपि यथोक्तमर्थद्वारेण पदार्थानामन्या सत्तौपचारिकीति। तत्र मुख्या या सत्ता तस्या एव प्रतिषेधः, न तु बुद्धिस्थाया औपचारिक्या इति तन्निबन्धनप्रयोगो न विरुध्यते। "अचाम्" इत्यादि। अजन्तानां धातूनामचित्तकर्त्तृकाणां प्रतिषिद्धानां णिनिर्भवति। अविद्यमानं चित्तमस्येति अचित्तः स कत्र्ता येषां ते तथोक्ताः। अर्थद्वारकं चेदं विशेषणम्। अर्थस्य ह्रचित्तकर्त्तृकत्वात् तदभिधायिनो धातव उपचारेण तथोच्यन्ते। "विशयी विषयी देशे" इति। विशययिविषयिशब्दौ देशेऽभिधेये णिनिप्रत्ययान्तौ साधू भवतः। "शीङ स्वप्ने"((धा।पा।१०३२), "षिञ् बन्धने" (धा।पा।१४७७)--एतयोर्विपूर्वयोर्णिनिः। वृद्ध्यभावश्च निपातनात्। अभिभावी भूते" इति। अभिभाविशब्दो भूतकाले णिनिप्रत्ययान्तः साधुर्भवति। भवतेरभिपूर्वात् णिनिः। अभिभूतवानित्यभिभावी। "अपराधी, उपरोधी" इति। "राध साध संसिद्धौ" (धा।पा।१२६२,१२६३), "रुधिर् आवरणे" (धा।पा।१४३८)- आभ्यामपोपपूर्वभ्यां णिनिः। "परिभावी, परिभवी" इति। भवतेः परिपूर्वस्य। पक्षे वृद्धयभावः।
"पच" इत्यादि। "डुपचष् पाके" (धा।पा।९९६), "वच परिभाषणे" (धा।पा।१८४२), "डुवपबीजतन्तुसन्ताने {छेदनेऽपि--धा।पा।}"(धा।पा।१००३), "वद व्यक्तायां वाचि" (धा।पा।१००९), "चल कम्पने"(धा।पा।८३२), "शल गतौ" (धा।पा।८४३), "पत्लु गतौ" (धा।पा।८४५)। "नदट्" इति। "{णद" -धा।पा।}नद अवक्ते शब्दे" (धा।पा।५४)। टकारानुबन्धो ङीबर्थः। "{भषट्-काशिका} भसट्" इति। "{भष भत्र्सने"} भस भत्र्सनदीप्त्योः" (धा।पा।११००) टकारो ङीबर्थः। "गृ निगरणे" (धा।पा।१४१०), "मिष स्पद्र्धायाम्" (धा।पा।१३५२), "कुप क्रोधे"(धा।पा।१२३३), "मिह सेचने" (धा।पा।९९२),
"तृ? प्लवनतरणयोः" (धा।पा।९६९), "चुर स्तेये" (धा।पा।१५३४), "गाहू विलोडने" (धा।पा।६४९), "जृ()ष् झृ()ष् वयोहानौ" (धा।पा।११३०,११३१), "मृङ प्राणत्यागे" (धा।पा।१४०३), "क्षमूष् सहने" (धा।पा।४४२), "तुद व्यथने" (धा।पा।१२८१), "मृद् क्षोदे" (धा।पा।१५१५), "दिवु क्रीडादौ" (धापा।११०७), "नृती गात्रविक्षेपे" (धा।पा।१११६), "व्रण गात्रचूर्णने" (धा।पा।१९३७) चुरादिः; "दृशिर् प्रेक्षणे" (धा।पा।९८८)। "डुभृञ् धारणपोषणयोः" (धा।पा।१०८७)- अस्माज्जारशब्द उपपदेऽच्। जारं बिभर्तीति "जारभरः"। पचेः शुन्युपपदे कर्मण्यणपदादोऽच्-- ()आआनं पचतीति "()आपचः"। "आकृतिगणः" इति। पचादिसम्बन्धिन आदिशब्दस्य प्रकारार्थत्वात्। आकृतिगणत्वे चास्य चक्रधरादयः सिद्धा भवन्ति॥
नन्दिग्रहि। नन्दि,ग्रहि, पच एषां द्वन्द्वः। नन्दिग्रहिपचा आदिर्येषामिति विग्रहः। आदिशब्दस्य प्रत्येकमन्वयः फलति। ल्यु , ण्नि,
अच्? - एषां द्वन्द्वात्प्रथमा। यथासङ्ख्यमन्वयः। तदाह-- न्द्यादेरित्यादि। नन्दीति ण्यन्तग्रहणम्। तदाह-- नन्दयतीत्यादि। ल्योरनादेशः, "णेरनिटी"ति णिलोपः। मधुं सूदयतीति। मधुरसुरविशेषः, तं सूदयति = केचिदण्यन्ताः। सूत्रे "ग्रह उपादाने" इत्यस्य ग्रहीति इका निर्देशः। सौत्रत्वात् "ग्रहिज्ये" ति संप्रसारणं न। ग्राहीति। ग्रहधातोरदुपधाण्णिनिः। नकारादिकार उच्चारणार्थः। उपधावृद्धिः। विशयीति। विपूर्वात् "शीङ् स्वप्ने" इति धातोर्णिनिः। गुणाऽयादेशौ। "अचोऽञ्णिती"ति वृद्धिमाशङ्क्याऽऽह-- वृद्ध्यभाव इति। विषयीति। "षिञ् बन्धने" अस्मात्कृतषत्वाण्णिनिः। गुणाऽयादेशौ। नन्विह कतं न वृद्धिः, कथं च षत्वं, पदादित्वादित्यत आह-- षत्वमपीति। निपातनाद्वृद्ध्यभावः षत्वं चेत्यर्थः। परिभावी परिभवीत्यत्र णित्त्वान्नित्यवृद्धिमाशङ्क्य आह-- पाक्षिक इति। ग्रह्रादयो वृत्तौ पठिताः। पचादिराकृतिगण इति। पच वप इत्यादिकतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः। गणपाठे आकृतिगणत्ववचनाऽभावेऽप्याह-- शिवशमिति। सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृञोऽच्प्रत्ययान्तस्य, "कर्मणि घट" इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः। अच्प्रत्यय इति। यङन्तादच्प्रत्यये परे "यङोऽचि चे"ति यहो लुग्विधीयते। नहि पचादिगणे यङन्तं पठितमस्ति। अतोऽपि पचादेराकृतिगणत्वं विज्ञायते इत्यर्थः। पचादेराकृतिगणत्वे नदट् चोरडित्यादीनं तत्र पाठो व्यर्थ इत्यत आह--- केषांचिदिति। टकारानुन्धासञ्जानार्थ इत्यर्थः। नन्वेमपि वद चल इत्यादीनामनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह-- केषांचित्प्रपञ्चार्थ इत। बाधकेति। "जारभर" "()आपचे"त्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थं भरपचादीनां पाठ इति भाष्यम्। देवः सेव इत्यादौ "इगुपधज्ञाप्रीकिरः कः" इति विशिष्य विहितस्य कस्य बाधनार्थं च। तदेतदुपपादयति-- नदडित्यादि। ननु पचादिगणे ()आपचशब्दस्य बाधकबाधनार्थत्वे ()आपाक इति कथमित्यत आह-- न्यङ्क्वादिषु पाठाच्छ्वपाकोऽपीति। कदाचिदण्प्रत्ययः,कुत्वं चेत्यर्थः। चेक्रियः, मरीमृज इत्यादौ प्रक्रियां दर्शयति-- यङोऽचि चेति। क्रीञादिधातोरचि यङो लुगित्यर्थ-। द्वित्वादौ चेक्री अ इत्यादिस्थितौ आह-- न धातुलोप इति। चेक्रिय इति। गुणाऽभावे संयोगपर्वत्वान्न यण्। नेन्य इति। "एरनेकाचः" इति यण्। लोलुव इति। उवङ्। यण्तु न, "ओः सुपी"त्युवक्तेः। मरीमृज इति। अत्र "न धातुलोपे" इति निषेधान्न मृजेर्वृद्धिः। चरिचलीति। एषामच्प्रत्यये परे द्वित्वम्, अभ्यासस्य आगागमश्चेत्यर्थः। ननु "चराचर" इत्यत्राऽभ्यासे रेफादाकारस्य ह्यस्वः स्यात्, हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह-- आगागमस्येति। ह्यस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम्, आगागमस्यैव विधातुं शक्यत्वात्। तथा हलादिशेषेण रेफस्य निवृत्तौ ह्यस्वत्वेऽपि सवर्णदीर्घेण "चाचर" इति सिद्धेर्धीर्घोच्चारणं हलादिशेषाऽभावं गमयतीत्यर्थः। हन्तेरितति। वार्तिकमिदम्। हनधातोरचि घत्वं द्वित्वमापक् चेत्यर्थः। ननूत्तरखण्डे "अभ्यासाच्चे"ति कुत्वसिद्धिः किमर्थमिह घत्वविधानमित्यत आह-- घत्वमभ्यासस्येति। "इह विधीयतेट इति शेषः। पाटेरिति। वार्तिकमिदम्। पाटेर्णौ पाटि इत्यस्मादचि णेर्लुक्, द्वित्वम्, अभ्यासस्य ऊगागमः। अभ्यासस्य आकारस्य ह्यस्वे तसय् दीर्घश्चेत्यर्थः। वृद्धिनिवृत्तये णेर्लुग्विधिः। आगमे दीर्घोच्चारणाद्धलादिशेषेण टकारस्य न निवृत्तिः, हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः।